|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.5. अध्यायः 005
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
धृतराष्ट्र उवाच। 11-5-0x(5320)(64904)
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते।
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे॥ 11-5-1(64905)
विदुर उवाच। 11-5-2x(5321)
अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे।
यथा संसारगहनं वदन्ति परमर्षयः॥ 11-5-2(64906)
कश्चिन्महति कान्तारे वर्तमानो द्विजः किल॥
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम्॥ 11-5-3(64907)
सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा॥ 11-5-4(64908)
समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम्।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्॥ 11-5-5(64909)
अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः॥ 11-5-6(64910)
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति।
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः।
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते॥ 11-5-7(64911)
अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम्।
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया॥ 11-5-8(64912)
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः।
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्॥ 11-5-9(64913)
वनमध्ये च तत्राभूदुदपानः समावृतः।
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः॥ 11-5-10(64914)
पपात स द्विजस्तत्र निगूढे सलिलाशये।
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले॥ 11-5-11(64915)
पनसस्य यथा जातं वृन्तबद्धं महाफलम्।
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः॥ 11-5-12(64916)
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः।
कूपमध्ये महानागमपश्यत महाबलम्॥ 11-5-13(64917)
कूपपीनाहवेलायामपश्यत् महागजम्॥ 11-5-14(64918)
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्॥ 11-5-15(64919)
तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः।
नानारूपा मधुकरा घोररूपा भयावहाः॥ 11-5-16(64920)
आसते मधु संवृत्य पूर्वमेव निकेतजाः।
भूयोभूयः समीहन्ते मधूनि भरतर्षभ॥ 11-5-17(64921)
स्वादनीयानि भूतानां यैर्बालो न वितृप्यते।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा॥ 11-5-18(64922)
आलम्बमानः स पुमान्धारां पिबति सर्वदा।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे॥ 11-5-19(64923)
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः।
न चास्य जीविते राजन्निर्वेदः समजायत॥ 11-5-20(64924)
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः॥ 11-5-21(64925)
व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया।
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च॥ 11-5-22(64926)
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम्।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्॥ 11-5-23(64927)
एवं स वसते तत्र क्षिप्तः संसारसागरे।
न चैव जीविताशायां निर्वेदमुपगच्छति॥ ॥ 11-5-24(64928)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|